शुक्रवार, 17 अप्रैल 2009

Rigveda

भुमिका—
वेदाः भारतीय सभ्यतायाः संस्कृतेश्च विश्वकोषाः सन्ति । वेदाश्चत्वारः सन्ति – ऋग्वेदः, यजुर्वेदः, सामवेदः, अथर्ववेदश्च । वेदाः अनन्तज्ञानराशेः कोशाः सन्ति । भारतीय परम्परायाः एषा मान्यता अस्ति यत वेदाः मानवकृताः न सन्ति, एते तु ईश्वरकृताः सन्ति । वेद शब्दस्य उत्पत्ति विद धातोः घञ प्रत्यये कृत्वा भवति यस्य अर्थः भवति- ‘ज्ञान’ ।अहमत्र केवलं ऋग्वेदस्य वर्णनं करिष्यामि ।


ऋग्वेदः प्राचीनतमो वर्तते । ऋग्वेदः पद्यात्मको वर्तते । येन देवस्य स्तुतिः क्रियते तम ऋक कथ्यते
“ ऋच्यते स्तूयते वानया इति ऋक ”
ऋचाणां संग्रहः एव ऋग्वेदोऽस्ति । तत्र वैदिक देवी-देवतानां उपासना वर्तते । अस्मिन वेदे धार्मिकं, एतिहासिकं, दार्शनिकं, प्राकृतिकञ्च वर्णनं विविधरुपेण वर्तते । अस्मिन वेदे विभिन्न कालेषु विभिन्नैः ऋषिभिः प्रणितानि विविधानि सूक्तनि सन्ति । अन्येषु वेदेष्वपि ऋग्वेदस्य प्रभावः परिलक्षितो भवति ।
1. ऋग्वेदस्य समयः—
ऋग्वेदस्य कालनिर्धारणस्य विषये अनेकाः मताः प्रचलिताः सन्ति । प्रो० मैक्समुलर महोदयस्य मते ऋग्वेदस्य रचनाकालं १२०० ई० पूर्वमस्ति । परन्तु मैक्डानल महोदयेन भाषायाः आधारेण ऋग्वेदस्य समयः १३०० ई० पूर्वं निर्धारितं कृतम् अस्ति । जैकोबी महदोयस्य मतेन ऋग्वेदस्य समयः ४५०० ई० पूर्वम् अस्ति । बालगंगाधर तिलकस्य मते ऋग्वेदस्य कालः ६५०० ई० पूर्वं भवितव्यम् ।

2. ऋग्वेदस्य संहिताः ---
ऋग्वेदे ये मन्त्राः सन्ति ते एव ऋचः उक्ताः सन्ति । ऋग्चेदस्य मन्त्राणां समुहः ऋग्वेदस्य संहिताः सन्ति । एताः मन्त्राः श्रुतिः अपि कथ्यन्ते यतः गुरु शिष्य परम्परया एताः मन्त्राः चिरकालयावत मौखिकरुपेण संप्रेषिताः आसन। ऋग्वेदे संहितानां क्रमो द्विधा वर्तते—
(क) अष्टक-क्रमानुसारेण ।
(ख)मण्डलक्रमानुसारेण ।


(क) अष्टक-क्रम —
अष्टक-क्रमानुसारेण समस्त ऋग्वेदः अष्ट भागेषु विभक्तोऽस्ति । प्रत्येको भागः अष्टक इति नाम्ना कथ्यते । एकस्मिन अष्टके अष्ट अध्यायाः सन्ति । प्रत्येके अध्याये वर्गाः सन्ति । प्रत्येके अध्याये वर्गाणां संख्या भिन्ना अस्ति । प्रतिवर्गे मन्त्राः सन्ति । मन्त्राणां संख्या अपि प्रतिव्र्गे भिन्ना-भिन्ना वर्तते । अनेन प्रकारेण अष्टक क्रमानुसारेण सम्पुर्णः ऋग्वेदः विभक्तः अस्ति ।
(क) अष्टकाः = 8
(ख)अध्यायाः = 8x8 = 64
(ग) वर्गाः = 2006
(घ) मन्त्राः = 12036

(ख) मण्डल क्रम –
मण्डलक्रमानुसारेण सम्पूर्णः ऋग्वेदः दशमण्डलेषु विभक्तः अस्ति । एतत क्रमः अत्यधिक महत्वपूर्णः, एतिहासिकः, वैज्ञानिश्च मन्यते । प्रतिमण्डलान्तर्गते अनुवाकाः सन्ति । प्रति-अनुवाके सूक्ताः सन्ति । प्रतिसूक्ते
मन्त्राः सन्ति ।
मण्डलक्रमानुसारेण---
(क) मण्डलः = 10
(ख)अनुवाक = 85
(ग) सूक्ताः = 1028
(घ) मन्त्राः = 10580
(ङ) शब्दाः = 153826
(च) अक्षराः = 432000


द्वितीय मण्डलतः सप्तम मण्डल पर्यन्तं ऋग्वेदस्य केन्द्रीय अशोंऽस्ति । वंशविशेषात सबंध भूतत्वात आङ्लभाषायां मण्डलान ‘family book’ इति कथ्यन्ते ।

3. ऋग्वेदस्य विषयः ---
(क) राजनीतिक व्यवस्था –
1. ग्रह, ग्रामं, विशं, तथा जनञ्च मिलित्वा राष्टृस्य निर्माणं कुर्वन्ति स्म ।

2. राज्यस्य प्रधानपुरुषः नृपः भवति स्म ।

3. शासन वयवस्था प्रजातन्त्रात्मिका आसीत ।

4. राज्यसभा तथा राजनैतिकाः संस्थाः अपि आसन ।
(ख)सामाजिक वयवस्था –
1. समाजः पूर्णरुपेण विकसितं सुव्यवस्थितञ्च आसीत ।
2. परिवारः पितृप्रधान भवति स्म ।
3. वर्णव्यस्था प्रचलिता आसीत ।
4. विधवा-विवाह प्रथा तथा सती प्रथा प्रचलिता आसीत ।
5. नैतिकदृष्ट्या नारीणां स्थानं उच्च आसीत ।
(ग) आर्थिक दृष्टया –
1. जीवनस्य केन्द्रः पशुसम्पत्ति आसीत।
2. कृषि एव आजीविकायाः साधिका आसीत ।
3. व्यापारोऽपि भवति स्म ।
4. द्युतक्रीडायाः वर्णनमपि मिलति ।
4. ऋग्वेदस्य ऋषयः ---
ऋग्वेदे यानि सूक्तानि सन्ति तेषां ऋषयः अपि विविधाः सन्ति । यास्कमहोदयेन उक्तम ----
“ ऋषयः मन्त्रद्रष्टारः ”

अर्थात एते ऋषयः मन्त्राणां द्रष्टारः आसन् प्रणेतारः रचयितारः वा नासन । यः ऋषि यस्य मन्त्रस्य दर्शनं कृतवान स तस्य एव मन्त्रस्य तस्य एव सूक्तस्य ऋषि वर्तते । ऋग्वेदे गृत्समद – विश्वामित्र – वामदेव - भारद्वाजः – वशिष्टः – कण्वः – हिरण्यस्तुपः – शुनः – शेपादीनां ऋषीनां उल्लेखं मिलति । यास्कमहोदयेन उक्तम अस्ति यत—

“ साक्षात कृतधर्माणः ऋषयः बभुवुः ”


5. ऋग्वेदस्य देवाः –
प्रत्येकस्य सूक्तस्य देवाः वर्तन्ते । तस्मिन सूक्ते तस्य देवस्य एव स्तुतिः क्रियते । ऋग्वेदे मुख्यतः त्रयोस्त्रिशंत देवानां स्तुतिः अस्ति । इन्द्रः प्रमुखतमः देवः अस्ति । इन्द्रस्य विषये एव सर्वाधिकाः मन्त्राः ऋग्वेदे सन्ति । प्रायः 250 सूक्तेषु इन्द्रस्य स्तुतिरस्ति । अग्निदेवस्य स्तुतिरपि 200 सूक्तेषु मिलति । इन्द्रस्य स्तुतिपरकं एकं मन्त्रं अस्ति –
इन्द्रस्य नु वीर्याणि प्र वोचं यानि चकार प्रथमानिवज्री ।
अहन्नहिमन्वपस्ततर्द प्र वक्षणा अभिनत्यर्वतानां ॥
ऋग्वेदे वरुण – मरुत – विष्णु – सूर्य – सविता – उषा – सोम – पूषा – वाक – यम – पर्जन्य – पुरुषादयः देवाः सन्ति । तत्र पुरुषरुपा देवाः अपि सन्ति, नारिरुपादेवाः अपि सन्ति । काम – मन्यु – श्रद्धादयः भावात्मकाः देवाः अपि सन्ति । कश्चिद्देवाः युगलरुपेण सन्ति यथा –- मित्रावरुण – द्यावा पृथ्वी – इन्द्राग्नी इत्यादयः ।
मुख्यतः देवाः त्रिविधाः सन्ति ----
१. द्युलोकस्य देवाः – सूर्यादयः देवाः द्युलोकस्य देवाः सन्ति
२. अन्तरिक्षस्य देवाः – विद्युतादयः अन्तरिक्षस्य देवाः सन्ति ।
३. भूलोकस्य देवाः – अग्न्यादयः भूलोकस्य देवाः सन्ति ।
ऋग्वेदे संवादात्मक सूक्तानि अपि सन्ति यथा – पुरुरवा-उर्वशी सूक्तम, यम-यमी सूक्तम, इन्द्रवरुण सूक्तम, सरमा-पाणी सूक्तम ।

6. ऋग्वेदे धर्मो दर्शनञ्च ---
मुख्यतः वयं कथयितुं शक्नुमः यत ऋग्वेदः भारतीय दर्शनानां मूलाधारो वर्तते । ऋग्वेदे त्रयस्त्रिंशत देवानां वर्णनं मिलति । अनेन प्रकारेण अत्र बहुदेवतावादस्य प्रधानता अस्ति । अन्यत्र एकस्मिन प्रसङ्गे यास्क महोदयः कथयति---
“ एक एव आत्मा बहुधा स्तूयते ”
अर्थात एक एव परमात्मा अस्ति तस्य एव स्तुति विविध प्रकारेण भवति अत एव ऋग्वेदे एकदेवतावादस्य अपि महत्तवं वर्तते ।
ऋग्वेदे ‘पुरुषसूक्ते’ ‘हिरण्यगर्भ सूक्ते’ ‘नासदीय सूक्ते’ च दार्शनिक विचाराः एव सन्ति ।पुरुष सूक्ते संसारस्य विकासस्य वर्णनमस्ति, ब्राह्मण – क्षत्रिय – वैश्य – शुद्रानां विवेचनमपि मिलति ।


7. ऋग्वेदे छन्द योजना ---
ऋग्वेदे विविधानि छंदासि प्रयुक्तानि । विशेषतः गायत्री – उष्णिक – अनुष्टुप – त्रिष्टुप – बृहती – जगती – तथा पंक्त्यादयः छन्द्सां प्रयोगः ऋग्वेदे मिलति । गायत्री छन्दसः प्रयोग अनेनप्रकारेणास्ति –
अग्निना रयिमश्नवत पोषमेव दिवे दिवे ।
यशसं वीरवत्तममं ।
अत्र गायत्री तथा उष्णिक छन्दसि त्रयः चरणाः भवन्ति । पंक्ति छन्दसि पञ्च चरणाः भवन्ति । अन्याः चत्वारः चरणयुक्ताः भवन्ति ।


8. ऋग्वेदे प्राकृतिक चित्रणं ---
ऋग्वेदे प्राकृतिक चित्रणं अति मनोरमं वर्तते । अनेके देवाः अपि प्राकृतिका सन्ति । ऊषा – वरुण – सूर्य – अग्नि – सोमादीनां – मानवीयकरणं अतिमनोरमं वर्तते ।ऊषा एका सुन्दरी कन्या अस्ति सा पूर्व दिशायाम स्वशोभां प्रसारयति , अन्धकारस्य च विनाशं करोति ।
“ व्यु व्रजस्य तमसो द्वारोच्छन्तीरव्रञ्छुचयः पावकाः ”
अत्र वाक अपि एका देवी वर्तते सा स्वयमेव कथयति –
“ अहं जनाय समदं कृणाम्यहं द्यावा पृथिवी आ विवेश ”

इन्द्रः एकः वीरयोद्धारुपेण तथा वरुणः नृपरुपेण चित्रितमस्ति ।


9. अलङ्काराणां समावेशः ---
ऋग्वेदे अलंकाराणां प्रयोगः पगे-पगे अस्ति । येन भाषायां सौन्दर्यः वर्धते । अग्निसूक्ते उपमालंकारस्य प्रयोगः अतिसुन्दररुपेण वर्तते—
“स नः पितेव सूनवे अग्ने सूपायनो भवः ”
रुपकालंकारस्य प्रयोगोऽपि अतिसुन्दररुपेण अस्ति वर्तते ।अत्र रुपकालंकारेण ईश्व्रस्य जीवस्य च स्वरुपं स्पष्टीकृतं --–
“द्वा सुपर्णा सयुजा सखायाः,
समानवृक्षं परिषत्वजाते ।
तयोरन्यः पिप्पलं स्याद्वत्यः,
नश्न्नन्यो अभिचकाशीति ॥


अनेन प्रकारेण वयं कथयितुं शक्नुमः यत ऋग्वेदः साहित्यस्य, धर्मस्य, दर्शनस्य, प्रकृतेः, ग्रन्थोऽस्ति ।





सन्दर्भ सूची –
ग्रन्थः ग्रन्थकारः
1. ऋग्वेदभाष्य सायाणाचार्य
2. ऋकतन्त्र सूर्यकान्त
3. ऋग्वेद सन्ध्यावन्दनम अज्ञात
4. ऋगर्थदीपिका आचार्य श्री माधव
5. ऋगसंग्रह बिजपुरकर विष्णु गोविंद
6. ऋग्वेद संहिता श्री पाद दामोदर
7. ऋक भाष्य भुमिका कपाली शास्त्री
8. ऋग्वेद सुबोध भाष्य श्री पाद दामोदर
9. ऋक भाष्य संग्रह देवराज चान्ना
10. ऋग्वेद श्री राम शर्मा
11. ऋक रत्न भण्डार कोलंगडे रामचन्द्रगोविन्द
12. Rigveda Bhashyam Kunjan Raja C
13. Rgveda samhita Dr. Lakshman sarup
14. Regveda Sanhita Shashto’ o Bhaga vilsana- Hecha

10. Other links –
1. www.vedah.com
2. www.indianetzone.com/2/rig veda .htm
3. www.lemeestudies.com/jean/ rigaveda.htm

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें